सर्व आरत्या
वंदन
श्री गणेश

वंदन

गणेश स्थापना संपूर्ण विधी · 31 श्लोक
आचमन
ॐ केशवाय नमः । ॐ नारायणाय नमः । ॐ माधवाय नमः । या नावांनी दोनदा आचमने करावी. ॐ गोविंदाय नमः । या नावाने पाणी सोडावे. पुढील नावे हात जोडून म्हणावीत. नंतर प्राणायाम करावा. ॐ केशवाय नमः । ॐ नारायणाय नमः । ॐ माधवाय नमः । ॐ गोविंदाय नमः । ॐ विष्णवे नमः । ॐ मधुसूदनाय नमः । ॐ त्रिविक्रमाय नमः । ॐ वामनाय नमः । ॐ श्रीधराय नमः । ॐ हृषीकेशाय नमः । ॐ पद्मनाभाय नमः । ॐ दामोदराय नमः । ॐ संकर्षणाय नमः । ॐ वासुदेवाय नमः । ॐ प्रद्युम्नाय नमः । ॐ अनिरुद्धाय नमः । ॐ पुरुषोत्तमाय नमः । ॐ अधोक्षजाय नमः । ॐ नारसिंहाय नमः । ॐ अच्युताय नमः । ॐ जनार्दनाय नमः । ॐ उपेन्द्राय नमः । ॐ हरये नमः । ॐ श्रीकृष्णाय नमः ।
प्राणायाम
प्रणवस्य परब्रह्म ऋषिः । परमात्मा देवता । दैवी गायत्री छंदः । सप्तानां व्याहृतीनां विश्वामित्र, जमदग्नि, भरद्वाज, गौतम, अत्रि, वसिष्ठ, काश्यप ऋषयः । अग्नि, वाय्वादित्य, बृहस्पति, वरुणेन्द्र, विश्वेदेवा देवताः । गायत्र्युष्णिग् - अनुष्टप् - बृहतीपंक्ति - त्रिष्टुब - जगत्यश्छंदांसि । गायत्र्या गाथिनो विश्वामित्र ऋषिः । सविता देवता । गायत्री छंदः । गायत्री शिरसः प्रजापतिऋषिः । ब्रह्माग्निवाय्वादित्या देवताः । यजुश्छंदः । प्राणायामे विनियोगः । ॐ भूः ॐ भुवः ॐ स्वः ॐ महः ॐ जनः ॐ तपः ॐ सत्यम् । ॐ भूर्भवः स्वः । ॐ तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि । धियो यो नः प्रचोदयात ॥ ॐ आपो ज्योती रसोऽमृतं ब्रह्मभूर्भुवः स्वरोम् ॥
देवतावंदन
हात जोडून शांत मनाने सावकाश म्हणावे ॐ श्रीमन्महागणपतये नमः । इष्टदेवताभ्यो नमः । श्रीसरस्वत्यै नमः । श्री गुरुभ्यो नमः । कुलदेवताभ्यो नमः । ग्रामदेवताभ्यो नमः । स्थानदेवताभ्यो नमः । वास्तुदेवताभ्यो नमः । मातृपितृभ्यां नमः । श्रीलक्ष्मीनारायणाभ्यां नमः । सर्वेभ्यो देवेभ्यो नमः । सर्वेभ्यो ब्राह्मणेभ्यो नमः । निर्विघ्नमस्तु । सुमुखश्वैकदन्तश्च कपिलो गजकर्णकः । लम्बोदरश्च विकटो विघ्ननाशो गणाधिपः ॥१॥ धूम्रकेतुर्गणाध्यक्षो भालचंद्रो गजाननः । द्वादशैतानि नामानि यः पठेत् शृणुयादपि ॥२॥ विद्यारंभे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥३॥ शुक्लांबरधरं देवं शशिवर्णं चतुर्भुजं । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशांतये ॥४॥ सर्वमंगलमांगल्ये शिवे सर्वार्थसाधिके । शरण्ये त्र्यंबके गौरि नारायणि नमोऽस्तुते ॥५॥ सर्वदा सर्वकार्येषु नास्ति तेषाममंगलम् । येषां हृदिस्थो भगवान्मंगलायतनं हरिः ॥६॥ तदेव लग्नं सुदिनं तदेव ताराबलं चंद्रबलं तदेव । विद्याबलं दैवबलं तदेव लक्ष्मीपते तेंऽघ्रियुगं स्मरामि ॥७॥ लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषामिंदीवरश्यामो हृदयस्थो जनार्दनः ॥८॥ विनायकं गुरुं भानुं ब्रह्मविष्णुमहेश्वरान् । सरस्वतीं प्रणौम्यादौ सर्वकार्यार्थसिद्धये ॥९॥ अभीप्सितार्थसिद्धयर्थ पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥१०॥ सर्वेष्वारब्धकार्येषु त्रयस्त्रिभुवनेश्वराः । देवा दिशन्तु न सिद्धिं ब्रह्मेशानजनार्दनाः ॥११॥ गणनाथसरस्वतीरविशुक्रबृहस्पतीन् । पंचैतानि स्मरेन्नित्यं वेदवाणीप्रवत्तये ॥१२॥ गुरुर्ब्रह्मा गुरुर्विष्णु गुरुर्देवो महेश्वरः । गुरुः साक्षात्परब्रह्म तस्मै श्रीगुरवे नमः ॥१३॥ यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥१४॥
संकल्प
( संकल्प घेताना ज्या ठिकाणी........अशी खूण आहे तेथे त्या दिवशीच्या संवत्सराचे, नक्षत्राचे, वाराचे योग व करण यांची नावे पंचांगात पाहून म्हणावीत) श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य अद्य ब्रह्मणो द्वियीये परार्धे विष्णुपदे श्रीश्वेतवाराहकल्पे, वैवस्वतमन्वन्तरे, कलियुगे, प्रथमचरणे, भरतवर्षे, भरतखंडे, जंबुद्वीपे, दण्डकारण्ये देशे, गोदावर्याः दक्षिणे तीरे ........ मण्डले, ........ ग्रामे, शालिवाहन शके, ........ नाम संवत्सरे, ........ अयने, ........ ऋतौ, ........ मासे, ........ पक्षे, ........ तिथौ, ........ वासरे, ........ दिवस, ........ नक्षत्रे, एवं गुणविशेषणविशिष्टायां शुभपुण्यतिथौ, मम आत्मनः श्रुति स्मृति पुराणोक्त फलप्राप्त्यर्थ अस्माकं सर्वेषां सहकुटुंबानां सहपरिवाराणां क्षेम स्थैर्य विजय अभय आयुरारोग्यैश्वर्याभिवृद्धयर्थ शान्त्यर्थ पुष्टयर्थ तुष्टयर्थ समस्तमंगलावाप्त्यर्थ समस्तदुरितोषशांत्यर्थं समस्ताभ्युदयार्थ च इष्टकामसंसिद्धयर्थ कल्पोक्तफलावाप्त्यर्थ मम इह जन्मनि जन्मजन्मांतरे च सहकुटुंबस्य क्षेमस्थित्यायुरारोग्यैश्वर्यादिवृद्धि सर्वकामर्निर्विघ्नसिद्धि पुत्रपौत्रधनधान्यविद्याजययशसमृद्धिद्वारा अद्य भाद्रपदशुक्लचतुर्थ्या प्रतिवार्षिकं विहितं श्रीसिद्धिविनायकदेवताप्रीत्यर्थ यथाशाक्ति यथाज्ञानेन यथामीलितोपचारद्रव्यैः ध्यानावाहनादिषोडशोपचारैः पूजां करिष्ये । तथा च आसनादि दिग्बंधादि कलशपूजनं शंखार्चनं घंटाराधनं दीपपूजनं च करिष्ये । शरिरशुद्धयर्थं षडंगन्यासं च करिष्ये । आदौ निर्विघ्नतासिद्धयर्थ श्रीमहागणपतिस्मरणं च करिष्ये । ( हातात गंधाक्षतांसहित उदक घेऊन सोडावे )
श्री महा गणपतिस्मरण
गणानांत्वा शौनकोगृत्समदो गणपतिर्जगती । गणपतिस्मरणे विनियोगः ॥ ॐ गणानां त्वा गणपतिं हवामहे कविं कवीनामुपमश्रवस्तमम् । ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पत आ नः शृण्वन्नूतिभिः सीद सादनम् ॥ ऋद्धिसिद्धिसहितं सांगं सपरिवारं सायुधं सशक्तिकं श्रीमहागणपति स्मरामि श्रीमहागणाधिपतये नमः । निर्विघ्नं कुरु ॥ ( नमस्कार करावा )
आसनशुद्धी
( भूमीला स्पर्श करावा ) पृथिवीति मंत्रस्य मेरुपृष्ठ ऋषिः कूर्मेः देवता । सुतलं छंदः । आसने विनियोगः ॥ ॐ पृथ्वि त्वया धृता लोका देवि त्वं विष्णुना धृता । त्वं च धारय मां देवि पवित्रं करु चासनम् ॥ ऊर्ध्वकेशि विरूपाक्षि मांसशोणितभोजने । तिष्ठ देवि शिखाबंधे चामुंडे ह्यपराजिते ॥
भूतोत्सारण
( हातात अक्षता घेऊन दक्षिणेस फेकाव्या ) अपसर्पन्तु वामदेवो भूतान्यनुष्टुप भूतोत्सादने विनियोगः । ॐ अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः । ये भूता विघ्नकर्तारस्ते गच्छन्तु शिवाज्ञया ॥ अपक्रामंतु भूतानि पिशाचा सर्वतो दिशम् । सर्वेषामविरोधेन पूजाकर्म समारभे ॥ तीक्ष्णदंष्ट्र महाकाय कल्पांतदहनोपम । भैरवाय नमस्तुभ्यमनुज्ञां दातुमर्हसि ॥ पूजाकर्म समारभै । वामपादतलपार्श्वेन भूमिं त्रिस्ताडयेत् ( डाव्या पायाच्या तळाचा भाग भूमीस तीन वेळा लावावा ) देवा आयान्तु । यातुधाना अपयान्तु ॥ विष्णो देवयजनं रक्षस्व इति भूमौ प्रादेशं कूर्यात् । ( उजव्या हाताचा अंगठा व तर्जनी भूमीला लावावी ) मनुष्यगंधनिवारणे विनियोगः । येभ्यो माता इत्यस्य गयःप्लात ऋषिः, विश्वेदेवा देवता, जगती छन्दः । एवापित्र इत्यस्य वामदेवगौतम ऋषिः बृहस्पतिर्देवता, त्रिष्टुप् छन्दः । ( गणपतीला नमस्कार करावा )
षडंगन्यास
( शरीरशुद्धयर्थ मांडे घालून दोन्ही हातांनी न्यास करावे ) अंगुष्ठाभ्यां नमः । हृदयाय नमः । ( तर्जनी, मध्यमा व अनामिका यांनी हृदयाला स्पर्श करावा ) तर्जनीभ्यां नमः । शिरसे स्वाहा । ( अंगुली व मध्यमा यांनी मस्तकाला स्पर्श करावा ) मध्यमाभ्यां नमः । शिखायै वषट् ॥ ( तर्जनी, मध्यमा व अंगुष्ठ यांनी शेंडीच्या जागी स्पर्श करावा ) अनामिकाभ्यां नमः । कवचाय हुम् ॥ ( दोन्ही हातांनी स्कंधापासून नाभीपर्यंत स्पर्श करावा ) कनिष्ठिकाभ्यां नमः । नेत्रत्रयाय वौषट् ॥ ( तर्जनी, मध्यमा व अनामिका यांनी नेत्र व ललाट यांना स्पर्श करावा ) करतलकरपृष्ठाभ्यां नमः । अस्त्राय फट् । भूर्भुवस्वरोम् इति दिग्बंधः ॥ ( दोन्ही हातांनी टाळी वाजवावी )
कलशपूजा
( पाणी भरलीला कलशाला गंध व अक्षता लावलेले फूल चिकटवावे ) कलशस्य मुखे विष्णुः कंठे रुद्रः समाश्रितः । मूले तत्र स्थितो ब्रह्माः मध्ये मातृगणाः स्मृताः ॥ कुक्षौ तु सागराः सर्वे सप्तद्वीपा वसुंधरा । ऋग्वेदोऽथ यजुर्वेद सामवेदो ह्यथर्वणः ॥ अंगेश्व सहिताः सर्वे कलशं तु समाश्रिताः । अत्र गायत्रीसावित्री शांतिः पुष्टिकरी तथा । आयान्तु देवपूजार्थ दुरितक्षयकारकाः ॥ गंगे च यमुने चैव गोदावरि सरस्वति । नर्मदे सिन्धु कावेरि जलेऽस्मिन्सन्निधिं कुरु ॥ कलशाय नमः । सर्वोपचारार्थे गंधाक्षतपुष्पं समर्पयामि । ( नमस्कार करावा )
शंखपूजा
( शंखाला स्नान घालून गंध, पुष्प घालावे. शंखमुद्रा दाखवून नमस्कार करावा ) शंखादौ चंद्रदैवत्यं कुक्षौ वरुणदेवता । पृष्ठे प्रजापतिश्चैव अग्रे गंगासरस्वती ॥ त्रैलोक्ये यानि तीर्थानि वासुदेवाय चाज्ञया । शंखे तिष्ठतिं विप्रेन्द्र तस्माच्छंखं प्रपूजयेत् ॥ त्वं पुरा सागरोत्पन्नो विष्णुना विधृत करे । नमितः सर्वदेवेश्च पाञ्चजन्य नमोऽस्तु ते ॥ ॐ पाञ्चजन्याय विद्महे । पावमानाय धीमहि । तन्नः शंख प्रचोदयात् । शंखाय नमः । सकलपूजार्थे गंधपुष्पं समर्पयामि ॥
घंटापूजा
घंटानादं कुर्यात् ( घंटा वाजवावी ) आगमनार्थे तु देवानां गमनार्थ तु रक्षसाम् । कुर्वे घंटारवं तत्र देवताऽह्वानलक्षणम् ॥ घंटायै नमः । सकलपूजार्थे गंधाक्षतपुष्पं समर्पयामि ॥ ( घंटेला गंध, अक्षता, फूल, हळदकुंकू वाहावे )
दीपपूजा
( समईला फुलाने गंध, फूले व हळदकुंकू वाहावे ) भो दीप ब्रह्मरूपस्त्वं ज्योतिषां प्रभुरव्ययः । आरोग्यं देहि पुत्रांश्च सर्वार्थाश्च प्रयच्छ मे । यावत्पूजासमाप्तिः स्यात्तावत् त्वं सुस्थिरो भव । दीपदेवताभ्यो नमः । सकलपूजार्थे गंधपुष्पं समर्पयामि ॥
प्रोक्षण
( दूर्वेने पूजासाहित्यावर व स्वतःवर पाणी शिंपडावे ) अपवित्रः पवित्रो वा सर्वावस्थां गतोऽपि वा । यः स्मरेत्पुंडरीकाक्षं स बाह्माभ्यंतरः शुचिः ॥ पूजाद्रव्याणि संप्रोक्ष्य आत्मानं च प्रोक्षयेत् । ( हा मंत्र म्हाणावा आणि प्रोक्षण करावे )
प्राणप्रतिष्ठा
दोन दूर्वांकुरांनी गणपतीला स्पर्श करून म्हणावे- अस्य श्रीप्राणप्रतिष्ठामंत्रस्य ब्रह्माविष्णुमहेश्वरः ऋषयः । ऋग्यजुः सामाथर्वाणि छंदासि परा प्रानशक्तिर्देवता । आं बीजम् । र्‍हीं शक्तिः । क्रौं कीलकम् । अस्या मूर्तौ देवकलासन्निध्यार्थ प्राणप्रतिष्ठापने विनियोगः । ॐ आं, र्‍हीं, क्रौं,अं यं रं लं वं शं षं सं हं क्षं अः क्रौं, र्‍हीं, आं देवस्य प्राणा इह प्राणाः ॥ ॐ आं, र्‍हीं, क्रौं,अं यं रं लं वं शं षं सं हं क्षं अः क्रौं, र्‍हीं, आं, देवस्य जीव इह स्थितः ॥ ॐ आं, र्‍हीं, क्रौं,अं यं रं लं वं शं षं सं हं क्षं अः क्रौं, र्‍हीं, आं,देवस्यवाड्‍मनश्चक्षुः श्रोत्राजिव्हाघ्राणपाणिपादपायुपस्यादि सर्वेंद्रियाणि सुखं चिरं तिष्ठंतु स्वाहा ॥ ॐ असुनीते पुनरस्मासुचक्षु पुनः प्राणमिहनो धेहिभोगं । ज्योक्पश्येम सूर्यमुच्चरतमनुमते मृळयानः स्वस्ति । ( ताम्हनात एक पळी पाणी उजव्या हातावरून सोडावे. नंतर दुर्वाकुराने गणपतीच्या पायाला स्पर्श करावा ) अस्य देवस्य पंचदशसंस्कारसिद्धयर्थ पंचदश प्रणवावृत्तिः करिष्ये । ॐ ॐ असा प्रणवाचा पंधरा वेळा उच्चार करावा. नंतर दोन दूर्वांकुर तुपात बुडवून गणपतीच्या उजव्या डोळ्याला, नंतर डाव्या डोळ्याला त्या दूर्वेने तूप लावावे आणि म्हणावे- ॐ तच्चक्षुर्देवहितं शुक्रमुच्चरत् । पश्येम शरदः शतं जीवेम शरदं शतम् ॥ गणपतीला हात जोडून म्हणावे- रक्तांभोधिस्थपोतोल्लसदरुणंसरोजधिरूढा कराब्जे । पाशं कोदण्डभिक्षूद्भवमथ गुणमप्यंकुशं पञ्चबाणान् ॥ बिभ्राणा सृक्कपालं त्रिनयनलसिता पीनवक्षोरुहाढ्या । देवी बालर्कवार्णा भवतु सुखकरी प्राणशक्तिः परा नः ॥ ( गणपतीच्या चरणांवर गंध, अक्षता, फूल वाहावे. गूळ, केळे आदीचा नैवेद्य दाखवावा. नमस्कार करावा )
वंदन
वक्रतुंड महाकाय सूर्यकोटिसमप्रभ । निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥ ( अक्षता वाहाव्यात. नमस्कार करावा )
ध्यान
ॐ एकदन्ताय विद्महे वक्रतुंडाय धीमहि । तन्नो दन्ती प्रचोदयात् ॥ एकदन्तं शूर्पकर्णं गजवक्त्रं चतुर्भुजम् । पाशांकुशधरं देवं ध्यायेत् सिद्धिविनायकम् ॥ श्री सिद्धिविनायकाय नमः । ध्यायामि । ध्यानं समर्पयामि ॥ ( फूल, दूर्वाकुर वाहावे. नमस्कार करावा )
आवाहन
आगच्छ देवदेवेश तेजोराशे जगत्पते । क्रियामाणां मया पूजां गृहाण गणनायक ॥ श्री सिद्धिविनायकाय नमः । आवाहनार्थे दूर्वांकुरान् पुष्पांजलि समर्पयामि ॥ ( आवाहनार्थ दूर्वाकुर, फुले वाहावीत. नमस्कार करावा )
आसन
नानारत्‍नसमायुक्तं कार्तस्वरविभूषितम् । आसनं देवदेवेश प्रीत्यर्थ प्रतिगृह्यताम् ॥ श्री सिद्धिविनायकाय नमः । आसनार्थे दूर्वांकुरान् अक्षतान् समर्पयामि ॥ ( दूर्वांकुर, अक्षता गणपतीच्या चरणावर वाहाव्यात )
पाद्य
सर्वतीर्थसमानीतं पाद्य गन्धादिसंयुतम् । विघ्नराज गृहाणेदं भगवन् भक्तवत्सल ॥ श्री सिद्धिविनायकाय नमः । पाद्यो पाद्यं समर्पयामि । ( गणपतीच्या चरणावर दूर्वांकुराने पाणी शिंपडावे )
अर्ध्ये
अर्ध्ये च फलसंयुक्तं गंधपुष्पाक्षतैर्युतम् । गणाध्यक्ष नमस्तेऽस्तु गृहण करुणानिधे ॥ श्री सिद्धिविनायकाय नमः । हस्तयोः अर्ध्येः समर्पयामि ॥ तदर्थे गंधाक्षतपुष्पजलं समर्पयामि ॥ ( गणपतीवर गंधाक्षतापुष्प वाहावे. पळीत पाणी घेऊन त्यात गंध, अक्षता, फूल, दूर्वांकुर व सुपारी घालून गणपतीच्या हातावर अर्घ्य द्यावे. अर्घ्य ताम्हनात सोडावे )
आचमन
विनायक नमस्तुभ्यं त्रिदशैरभिवंदित । शुद्धोदकेन तोयेन शीघ्रमाचमनं कुरु ॥ श्री सिद्धिविनायकाय नमः । आचमनीयं समर्पयामि ॥ ( पळीभर पाणी ताम्हनात सोडावे )
स्नान
गंगादिसर्वतीर्थेभ्य आनीतं तोयमुत्तमम् । भक्त्या समर्पितं तुभ्यं स्नानायाभीष्टदायक ॥ श्री सिद्धिविनायकाय नमः । स्नानं समर्पयामि ॥ ( फुलाने गणपतीवर किंचित शुद्धोदक शिंपडावे )
पंचामृत स्नान
पंचामृत एकत्र करून किंवा दूध, दही, तुप, मध, साखर या क्रमाने निरनिराळी अर्पण करावी. एकत्र केलेली असल्यास म्हणावे- पयो दधि घृतं चैव मधुशर्करया युतम् । पंचामृतेन स्नपनं क्रियतां परमेश्वर ॥ श्री सिद्धिविनायकाय नमः । पंचामृतस्नानं समर्पयामि ॥ पंचामृत स्नानांतरेण शुद्धोदकस्नानं समर्पयामि । सकलपूजार्थे अक्षतान् समर्पयामि । ( दूध, दही, तूप, मध व साखर वाहणे. मध्ये शुद्धोदक देणे )
दूध
कामधेनो समुदभूतं देवर्षिपितृतृप्तिदम् । पयो ददामि देवेश स्नानार्थ प्रतिगृह्यताम् । श्री सिद्धिविनायकाय नमः । पयःस्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि ।
दही
चंद्रमंडलसंकाशं सर्वदेवाप्रियं दधि । स्नानार्थ ते मया दत्तं प्रीत्यर्थ प्रतिगृह्यताम् ॥ श्री सिद्धिविनायकाय नमः । दधिस्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि ।
तूप
आज्यं सुराणामाहार आज्यं यज्ञे प्रतिष्ठितम् । आज्यं पवित्रं परमं स्नानार्थ प्रतिगृह्यताम् ॥ श्री सिद्धिविनायकाय नमः । घृतस्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि ।
मध
सर्वविधिसमुत्पन्नं पीयूषसदृशं मधु । स्नानार्थ ते प्रयच्छामि गृहाण परमेश्वर ॥ श्रीसिद्धिविनायकाय नमः । मधुस्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि ।
साखर
इक्षुदण्डसमुद्भूतं दिव्यशर्करया शुभम् । स्नापयामि सदा भक्त्या प्रीतो भव सुरेश्वर ॥ श्री सिद्धिविनायकाय नमः । शर्करास्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि ॥
गंधोदकस्नान
( पळीत पाणी घेऊन गंध घालावे व ते पाणी वाहावे ) कर्पूरैलासमायुक्त सुगंधिद्रव्यसंयुतम् । गंधोदकं मया दत्तं स्नानार्थ प्रतिगृह्यताम् ॥ श्री सिद्धिविनायकाय नमः । गंधोदकस्नानं समर्पयामि । गंधोदकस्नानंतरे शुद्धोदकस्नानं समर्पयामि । सकलपूजार्थे अक्षतान् समर्पयामि ।
मांगलिक स्नान
( अत्तर, सुगंधी द्रव्ये देवाच्या अंगाला लावून स्नान घालावे ) अंगोद्वर्तनकं देव कस्तुर्यादिविमिश्रितम् । स्नानार्थ ते प्रयच्छामि स्वीकुरुष्व दयानिधे ॥ श्री सिद्धिविनायकाय नमः । मांगलिक स्नानं समर्पयामि । शुद्धोदकस्नानं समर्पयामि । सकलपूजार्थे अक्षतान् समर्पयामि ।
पूर्वपूजा
( गणपतीला नाममंत्रानी पंचोपचार करावे. ही पूर्वपूजा होय ) श्री सिद्धिविनायकाय नमः । विलेपनार्थे चंदन समर्पयामि । ( गंध लावावे ) श्री सिद्धिविनायकाय नमः । पूजार्थे पुष्पाणि समर्पयामि । ( फुले वाहावी ) श्री सिद्धिविनायकाय नमः । धूपं समर्पयामि । ( धूप दाखवावा ) श्री सिद्धिविनायकाय नमः । दीपं समर्पयामि । ( नीरांजन ओवाळावे ) श्री सिद्धिविनायकाय नमः । नैवेद्यार्थे पंचामृतशेषनैवेद्यं समर्पयामि । ( पंचामृताचा नैवेद्य दाखवावा ) ॐ प्राणाय स्वाहा । ॐ अपानाम स्वाहा । ॐ व्यानाय स्वाहा । ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा । ॐ ब्रह्माणे स्वाहा । श्री सिद्धिविनायकाय नमः । उत्तरापोशनं समर्पयामि । हस्तप्रक्षालनं समर्पयामि । मुखप्रक्षालनं समर्पयामि । पाणी सोडावे आणि दोन विड्याची पाने त्यावर सुपारी व दक्षिणा यांसह गणपतीसमोर ठेवून त्यावर पाणी सोडून म्हणावे- श्री सिद्धिविनायकाय नमः । मुखवासार्थे पूगीफलतांबूलं दक्षिणां च समर्पयामि । आणि मग उजव्या हाताने ताम्हनात पळीने पाणी सोडून गणपतीला नमस्कार करावा. अनेन पूर्वाराधनेन श्री सिद्धिविनायकाः प्रीयताम् । उत्तरे निर्माल्यं विसृज्य । अथ अभेषेकं कुयात् । गणपतीवर वाहिलेली फुले काढून उत्तरेकडे ठेवावी आणि अभिषेक करावा.