सर्व आरत्या
श्री गणेश

मंत्रपुष्पांजली

आरतीची सांगता · 5 श्लोक
कडवे १
ॐ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् । ते ह नाकं महिमान: सचन्त यत्र पूर्वे साध्या: सन्ति देवा: ॥
कडवे २
ॐ राजाधिराजाय प्रसह्य साहिने । नमो वयं वैश्रवणाय कुर्महे ॥ स मे कामान् कामकामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु ॥ कुबेराय वैश्रवणाय महाराजाय नम: ॥
कडवे ३
ॐ स्वस्ति साम्राज्यं भौज्यं स्वाराज्यं वैराज्यं पारमेष्ठ्यं राज्यं महाराज्यमाधिपत्यमयं समंतपर्यायी स्यात् सार्वभौम: सार्वायुष आंतादापरार्धात् पृथिव्यै समुद्रपर्यंताया एकराळिति ॥
कडवे ४
तदप्येष श्लोकोऽभिगीतो मरुत: परिवेष्टारो मरुत्तस्यावसन् गृहे । आविक्षितस्य कामप्रेर्विश्वेदेवा: सभासद इति ॥
कडवे ५
एकदंतायविद्महे वक्रंतुडाय धीमहि । तन्नोदंती प्रचोदयात् ॥